|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.12. अध्यायः 012
Mahabharata - Strii Parva - Chapter Topics
कृष्णवाक्याद्रतमन्युना धृतराष्ट्रेण भीमादीनामालिङ्गनम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
वैशम्पायन उवाच। 11-12-0x(5340)(65134)
तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः।
कृतशौचं पुनश्चैनं ओवाच मधुसूदनः॥ 11-12-1(65135)
राजन्नधीता वेदास्ते शास्त्राणि विविधानि च।
श्रुतानि च पुराणानि राजधर्माश्च केवलाः॥ 11-12-2(65136)
एवं विद्वान्महाप्राज्ञः समर्थः सन्बलाबले।
आत्मापराधात्कस्मात्त्वं कुरुषे कोपमीदृशम्॥ 11-12-3(65137)
उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत।
विदुरः सञ्जयश्चैव वाक्यं राजन्न तत्कृथाः॥ 11-12-4(65138)
स वार्यमाणो नास्माकमकार्षीर्वचनं तदा।
पाण्डवानधिकाञ्चानन्बले शौर्ये च कौरव॥ 11-12-5(65139)
राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते।
देशकालविभागं च परं श्रयेः स विन्दति॥ 11-12-6(65140)
उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते।
आपदः समनुप्राप्य सोऽभ्येति विलयं किल॥ 11-12-7(65141)
ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत।
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः॥ 11-12-8(65142)
आत्मापराधादापन्नस्तत्किं भीमं जिघांससि।
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम्॥ 11-12-9(65143)
यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्समाम्।
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता॥ 11-12-10(65144)
आत्मनोऽतिक्रमं पश्य पुंत्रस्य च दुरात्मनः।
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः॥ 11-12-11(65145)
वैशम्पायन उवाच। 11-12-12x(5341)
एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप।
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः॥ 11-12-12(65146)
एवमेतन्महाबाहो यथा वदसि माधव।
पुत्रस्नेहस्तु बलवान्धर्मान्मां समचालयत्॥ 11-12-13(65147)
दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यक्त्रिमः।
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम॥ 11-12-14(65148)
इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः।
मध्यमं पाण्डवं वीरं स्पष्टुमिच्छामि माधव॥ 11-12-15(65149)
हतेषु पारथिवेन्द्रेषु पुत्रेषु निहतेषु च।
पाण्डुपुत्रेषु मे धर्मः प्रीतिश्चाप्यवतिष्ठते॥ 11-12-16(65150)
ततः स भीमं च धनञ्जयं च
माद्याश्च पुत्रौ पुरुषप्रवीरौ।
पस्पर्श गात्रैः प्ररुदन्सुगात्रा--
नाश्वास्य कल्याणमुवाच चैनान्॥ ॥ 11-12-17(65151)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि द्वादशोऽध्यायः॥ 12 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-12-4 न तत्कृथाः ततन्न कृतवानरी। अडभाव आर्षः॥ 11-12-7 श्रेयो हिताहिते उच्यमानो न गृहीत इत्यन्वयः॥ 11-12-10 वैरं प्रतिचिकीर्षतेति क.पाठः॥ 11-12-11 अनागसि अपराधाभावे। परित्यागो राज्याप्रदानेन तिरस्कारः॥ 11-12-12 द्वादशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|